Dinesh Chandra Panthy

Dinesh Chandra Panthy
A Quest for Wisdom

Thursday, July 25, 2019

भजगोविन्दं भजगोविन्दं

adi shankaracharyaको लागि तस्बिर परिणाम
- जगतगुरु आदी शंकराचार्य
भजगोविन्दं भजगोविन्दं गोविन्दं भजमूढमते । संप्राप्ते सन्निहिते काले नहि नहि रक्षति डुकृञ्करणे ॥ १ ॥  मूढ जहीहि धनागमतृष्णां कुरु सद्बुद्धिं मनसि वितृष्णाम् । यल्लभसे निजकर्मोपात्तं वित्तं तेन विनोदय चित्तम् ॥ २ ॥ नारीस्तनभर नाभीदेशं दृष्ट्वा मागामोहावेशम् । एतन्मांसवसादि विकारं मनसि विचिन्तय वारं वारम् ॥ ३ ॥  नलिनीदलगत जलमतितरलं तद्वज्जीवितमतिशयचपलम् । विद्धि व्याध्यभिमानग्रस्तं लोकं शोकहतं च समस्तम् ॥ ४ ॥ यावद्वित्तोपार्जन सक्त- स्तावन्निज परिवारो रक्तः । पश्चाज्जीवति जर्जर देहे वार्तां कोऽपि न पृच्छति गेहे ॥ ५ ॥ यावत्पवनो निवसति देहे तावत्पृच्छति कुशलं गेहे । गतवति वायौ देहापाये भार्या बिभ्यति तस्मिन्काये ॥ ६ ॥ बालस्तावत्क्रीडासक्तः तरुणस्तावत्तरुणीसक्तः । वृद्धस्तावच्चिन्तासक्तः परमे ब्रह्मणि कोऽपि न सक्तः ॥ ७ ॥  काते कान्ता कस्ते पुत्रः संसारोऽयमतीव विचित्रः । कस्य त्वं कः कुत आयातः तत्त्वं चिन्तय तदिह भ्रातः ॥ ८ ॥  सत्सङ्गत्वे निस्सङ्गत्वं निस्सङ्गत्वे निर्मोहत्वम् । निर्मोहत्वे निश्चलतत्त्वं निश्चलतत्त्वे जीवन्मुक्तिः ॥ ९ ॥  वयसिगते कः कामविकारः शुष्के नीरे कः कासारः । क्षीणेवित्ते कः परिवारः ज्ञाते तत्त्वे कः संसारः ॥ १० ॥  मा कुरु धन जन यौवन गर्वं हरति निमेषात्कालः सर्वम् । मायामयमिदमखिलं हित्वा बुध्वा ब्रह्मपदं त्वं प्रविश विदित्वा ॥११॥  दिनयामिन्यौ सायं प्रातः शिशिरवसन्तौ पुनरायातः । कालः क्रीडति गच्छत्यायुः तदपि न मुञ्चत्याशावायुः ॥ १२ ॥ द्वादशमञ्जरिकाभिरशेषः कथितो वैयाकरणस्यैषः । उपदेशो भूद्विद्यानिपुणैः श्रीमच्छन्करभगवच्छरणैः ॥ १२अ ॥  काते कान्ता धन गतचिन्ता वातुल किं तव नास्ति नियन्ता । त्रिजगति सज्जनसं गतिरैका भवति भवार्णवतरणे नौका ॥ १३ ॥ जटिलो मुण्डी लुञ्छितकेशः काषायाम्बरबहुकृतवेषः । पश्यन्नपि चन पश्यति मूढः उदरनिमित्तं बहुकृतवेषः ॥ १४ ॥  अङ्गं गलितं पलितं मुण्डं दशनविहीनं जातं तुण्डम् । वृद्धो याति गृहीत्वा दण्डं तदपि न मुञ्चत्याशापिण्डम् ॥ १५ ॥  अग्रे वह्निः पृष्ठेभानुः रात्रौ चुबुकसमर्पितजानुः । करतलभिक्षस्तरुतलवासः तदपि न मुञ्चत्याशापाशः ॥ १६ ॥  कुरुते गङ्गासागरगमनं व्रतपरिपालनमथवा दानम् । ज्ञानविहीनः सर्वमतेन मुक्तिं न भजति जन्मशतेन ॥ १७ ॥  सुर मंदिर तरु मूल निवासः शय्या भूतल मजिनं वासः । सर्व परिग्रह भोग त्यागः कस्य सुखं न करोति विरागः ॥ १८ ॥ योगरतो वाभोगरतोवा सङ्गरतो वा सङ्गविहीनः । यस्य ब्रह्मणि रमते चित्तं नन्दति नन्दति नन्दत्येव ॥ १९ ॥  भगवद् गीता किञ्चिदधीता गङ्गा जललव कणिकापीता । सकृदपि येन मुरारि समर्चा क्रियते तस्य यमेन न चर्चा ॥ २० ॥ पुनरपि जननं पुनरपि मरणं पुनरपि जननी जठरे शयनम् । इह संसारे बहुदुस्तारे कृपयाऽपारे पाहि मुरारे ॥ २१ ॥  रथ्या चर्पट विरचित कन्थः पुण्यापुण्य विवर्जित पन्थः । योगी योगनियोजित चित्तो रमते बालोन्मत्तवदेव ॥ २२ ॥  कस्त्वं कोऽहं कुत आयातः का मे जननी को मे तातः । इति परिभावय सर्वमसारम् विश्वं त्यक्त्वा स्वप्न विचारम् ॥ २३ ॥ त्वयि मयि चान्यत्रैको विष्णुः व्यर्थं कुप्यसि मय्यसहिष्णुः । भव समचित्तः सर्वत्र त्वं वाञ्छस्यचिराद्यदि विष्णुत्वम् ॥ २४ ॥ शत्रौ मित्रे पुत्रे बन्धौ मा कुरु यत्नं विग्रहसन्धौ । सर्वस्मिन्नपि पश्यात्मानं सर्वत्रोत्सृज भेदाज्ञानम् ॥ २५ ॥  कामं क्रोधं लोभं मोहं त्यक्त्वाऽऽत्मानं भावय कोऽहम् ।  आत्मज्ञान विहीना मूढाः ते पच्यन्ते नरकनिगूढाः ॥ २६ ॥  गेयं गीता नाम सहस्रं ध्येयं श्रीपति रूपमजस्रम् । नेयं सज्जन सङ्गे चित्तं देयं दीनजनाय च वित्तम् ॥ २७ ॥  सुखतः क्रियते रामाभोगः पश्चाद्धन्त शरीरे रोगः । यद्यपि लोके मरणं शरणं तदपि न मुञ्चति पापाचरणम् ॥ २८ ॥  अर्थमनर्थं भावय नित्यं नास्तिततः सुखलेशः सत्यम् । पुत्रादपि धन भाजां भीतिः सर्वत्रैषा विहिता रीतिः ॥ २९ ॥  प्राणायामं प्रत्याहारं नित्यानित्य विवेकविचारम् । जाप्यसमेत समाधिविधानं कुर्ववधानं महदवधानम् ॥ ३० ॥  गुरुचरणाम्बुज निर्भर भक्तः संसारादचिराद्भव मुक्तः । सेन्द्रियमानस नियमादेवं द्रक्ष्यसि निज हृदयस्थं देवम् ॥ ३१ ॥  मूढः कश्चन वैयाकरणो डुकृञ्करणाध्ययन धुरिणः । श्रीमच्छम्कर भगवच्छिष्यै बोधित आसिच्छोधितकरणः ॥ ३२ ॥ भजगोविन्दं भजगोविन्दं गोविन्दं भजमूढमते । नामस्मरणादन्यमुपायं नहि पश्यामो भवतरणे ॥ ३३ ॥